श्रीरुद्रयामले अंतर्गत-महाविद्या कवचम्

॥ ॐ गं गणपतये नमः ॥

॥ मानसपुजनम् ॥

ॐ पृथ्वीतत्त्वात्मकं गन्धं श्रीमहाविद्याप्रीत्यर्थे समर्पयामि नमः ।
ॐ हं आकाशतत्त्वात्मकं पुष्पं श्रीमहाविद्याप्रीत्यर्थे समर्पयामि नमः ।
ॐ यं वायुतत्त्वात्मकं धूपं श्रीमहाविद्याप्रीत्यर्थे आघ्रापयामि नमः ।
ॐ रं अग्नितत्त्वात्मकं दीपं श्रीमहाविद्याप्रीत्यर्थे दर्शयामि नमः ।
ॐ वं जलतत्त्वात्मकं नैवेद्यं श्रीमहाविद्याप्रीत्यर्थे निवेदयामि नमः ।
ॐ सं सर्वतत्त्वात्मकं ताम्बूलं श्रीमहाविद्याप्रीत्यर्थे निवेदयामि नमः।

महाविद्या कवचम्

श‍ृणुदेवि प्रवक्ष्यामि कवचं सर्व सिद्धिदम् ।
आद्याया महाविद्यायाः सर्वाभीष्ट फलप्रदम् ॥ १॥

कवचस्य ऋषिर्देवी सदाशिव इतीरितः ।
छन्दोऽनुष्टुप् देवता च महाविद्या प्रकीर्तितः ॥ २॥

धर्मार्थ काम मोक्षाणां विनियोगश्च साधने ॥ ३॥

ऐं कारः पातु शीर्षे मां काम बीजं तथा हृदि ।
रमाबीजं सदापातु नाभौ गुह्ये च पादयोः ॥ ४॥

ललाटे सुन्दरी पातु उग्रा मां कण्ठदेशतः ।
भगमाला सर्व गात्रे लिङ्गे चैतन्यरूपिणी ॥ ५॥

पूर्वे मां पातु वाराही ब्रह्माणी दक्षिणे तथा ।
उत्तरे वैष्णवी पातु चेन्द्राणी पश्चिमेऽवतु ॥ ६॥

माहेश्वरी च आग्नेयां नैऋते कमला तथा
वायव्यां पातु कौमारी चामुण्डा हीशकेऽवतु ॥ ७॥

इदं कवचमज्ञात्वा महाविद्याञ्च यो जपेत् ।
न फलं जायते तस्य कल्पकोटि शतैरपि ॥ ८॥

॥ इति श्रीरुद्रयामले महाविद्या कवचम् ॥

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *

fifteen + 10 =